अन्नमय्य कीर्तन किं करिष्यामि - Samskritam - रावणः - श्री वेङ्कटेश्वर स्वामी कीर्तनानि - भारतीय स्वतन्त्रता दिवसः | BhaktiGranth: A Library Of Vedas, Stotrams, & Devotional Literature
16

अन्नमय्य कीर्तन किं करिष्यामि - श्री वेङ्कटेश्वर स्वामी कीर्तनानि


किं करिष्यामि किं करोमि बहुल-
शङ्कासमाधानजाड्यं वहामि ॥

नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनं ।
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचञ्चलत्वेन ॥

तिरुवेङ्कटाचलाधीश्वरं करिराज- ।
वरदं शरणागतवत्सलं ।
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि॥