जन्मदिनमिदम् - Marathi - संस्कृत गाणी | BhaktiGranth: A Library Of Vedas, Stotrams, & Devotional Literature
16

जन्मदिनमिदम् - संस्कृत गाणी

जन्मदिनमिदं अयि प्रिय सखे ।
शं तनोतु ते सर्वदा मुदम् ॥ 1 ॥

प्रार्थयामहे भव शतायुषी ।
ईश्वरस्सदा त्वां च रक्षतु ॥ 2 ॥

पुण्य कर्मणा कीर्तिमर्जय ।
जीवनं तव भवतु सार्थकम् ॥ 3 ॥